KSTF അംഗങ്ങളാവുക......KSTF മെമ്പര്‍ഷിപ്പ് കാമ്പയിന് തുടക്കമായി.2017 ഏപ്രില്‍ 1 മുതല്‍ ജൂണ്‍ 15 വരെയാണ് മെമ്പര്‍ഷിപ്പ് കാമ്പയിന്‍.

संस्कृत निबंध:


 


संस्कृतभाषा ( Sanskrit Essay on Sanskrit Language )

संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति। महर्षिपाणिनिरचिता "अष्‍टाध्‍यायी" जगतः सर्वासां भाषानां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं वर्तते। भारतीयभाषासु बहुलत्वेन संस्कृतशब्दाः उपयुज्यन्ते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषाः उद्भूताः। तद्वदेव भारत्-युरोपीयः भाषावर्गीयाः नैकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं वा प्रदर्शयन्ति।
संस्‍कृतभाषायाः सुरभारती, देववाणी, देवीवाक्‌, गीर्वाणवाणी, देवभाषा, अमरभारती इत्‍यादीनि बहूनि नामानि प्रसिद्धानि सन्‍ति ।
संस्कृते एकस्य धातोः रूपाणि अर्थकालानुसारेण दशसु लकारेषु भवन्ति । प्रत्येक-लकारे प्रथमपुरुषः, मध्यमपुरुषः, उत्तमपुरुषः इति त्रयः पुरुषाः सन्ति। अस्‍याः भाषायाः वैशिष्‍ट्‍यं नाम दंडचिन्हम्‌। न वर्तते अत्र अन्‍यानि विरामचिन्हानि केवलं दंडचिन्हमेव। एतदेव चिन्हम् विधानं प्रश्‍नम्‌ उद्‍गारं च सूचयति। अत: एकस्‍यैव वाक्‍यस्‍य भिन्‍नान्‌ अर्थान्‌ प्राप्‍नुमः वयम्‌। उदाहरणार्थं वाक्‍यांशः एकः दीयते। अभ्‍युत्‍थानं च धर्मस्‍य नैव दृष्‍टं कदाचन इति एतस्‍य वाक्‍यस्‍य द्वौ अर्थौ स्‍त:॥
संस्‍कृतस्‍य प्राचीनतमग्रन्‍थाः वेदाः सन्‍ति।

भारत : ( Sanskrit Essay on India )


भारतं एशिया महाद्वीपे दक्षिणे एक: महत्वपूर्णदेश: अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अस्य जनसङ्‌ख्या ११० क्टोटी| भाषा: शताधिकाः। भारतवर्षस्‍य उत्तरदिशि पर्वतराज: हिमालय: अस्‍ति, दक्षिणे सिन्धु महासागर: अस्‍ति। भारतस्य उत्तरे नेपाल तिब्बत चीन च देशा: सन्ति। पश्चिमे पाकिस्तान अफगानिस्तान च देशा: सन्ति। पूर्वेबर्मा एवं दक्षिणे श्रीलंका मालदीव च देशा: सन्ति। कुष्ण-द्वीप निकोबार च निकट: इंडोनेशिया थाईलैंड च देशा: सन्ति।
भारतस्य राजधानी दिल्ली अस्ति । अन्यमुख्य नगराणि मुम्बई कलकाता बेंगलोर् चेन्नै च सन्ति । भारते सप्तविंशति राज‍्यानि सन्ति।
भारतं प्रायः पूर्ण हिन्दु देशः।

युधिष्ठिरः ( Sanskrit Essay on Yudhisthira )

युधिष्ठिरः पञ्चपाण्डवेषु ज्येष्ठः । पाण्डुमहाराजस्य पुत्रः । कुन्ती अस्य माता । भीमःअर्जुनः च युधिष्ठिरस्य अनुजौ । नकुलः सहदेवः च युधिष्ठिरस्य विमातुः माद्र्याः पुत्रौ । अयं युधिष्ठिरः यमधर्मराजस्य वरेण जन्म प्राप्नोत् । महाभारतस्य प्रमुखेषु पात्रेषु अन्यतमम् अस्ति युधिष्ठिरस्य पात्रम् । जीवने सर्वदा धर्माचरणं कुर्वन् युधिष्ठिरः "धर्मराजः" इत्येव प्रसिद्धः ।
 

बालगङ्गाधर तिलकः ( Sanskrit Essay on Bal Gangadhar Tilak )


बालगङ्गाधर तिलकः (1856-1920) महान् राष्ट्रभक्तः । भारतस्य स्वातन्त्रसङ्ग्रामे प्रमुखः नेता आसीत् । स्वतन्त्रताया: आन्दोलनस्य प्रसङ्गे स: अघोषयत्‌, "स्वराज्यम्‌ अस्माकं जन्मसिद्ध: अधिकार:." इति ।
समाचारपत्राणां प्रकाशनं सम्पादनं च कृत्वा स: देशसेवां करोति स्म । बहुबारम्‌ कारागारवासम् अनुभूतवान् स: संस्कृते विद्वान्‌ आसीत्‌ ।

पाणिनिः ( Sanskrit Essay On Panini )

पाणिनिः संस्कृतस्य महान् वैयाकरणः ।

पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शलातुरग्रामे अभवत् । अतः तस्य 'शलातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्थानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि कथ्यते । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'तक्षशिला'विद्यापीठे शिक्षां प्राप्तवान्  |  पञ्चतन्त्रानुसारेण पाणिनेः मुत्युः सिंहकारणात् अभवत् - 'सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिनेः ।' परम्परानुसारेण पाणिनेः मृत्युः त्रयोदशीतिथ्याम् अभवत् । अतः एव पण्डितपरम्परायाम् अधुना अपि त्रयोदश्यां व्याकरणस्य अनध्यायः भवति |


आर्यभटः ( Sanskrit Essay on Aryabhatta )


आर्यभटः(४७६ - ५५०) महान् गणितज्ञः, ज्योतिर्विदः च आसीत्। तस्य जन्म अश्मकदेशे अभवत्। सः कुसुमपुर्याम् अपठत् अवसत् च। यदा सः त्रयोविंशतिवर्षीयः तदा सः आर्यभटीयम्अलिखत्। केषाञ्चन वर्षाणाम् अनन्तरं सः आर्यभटीयसिद्धान्तम् अलिखत्। सः गुप्तकाञ्चनकाले अवसत्।
ज्योतिश्शास्त्रस्य शास्तीयत्वं परिकल्पितम् आर्यभटेन एव । आर्यभटम् ’आर्यभट्टः’ इत्यपि निर्दिशन्ति केचन । आर्यभटः क्रि.श. ४७६ तमे वर्षे पाटलीपुत्रनगरे (पाटना) जातः इति, क्रि.श. ४९९ तमे वर्षे एषः ‘आर्यभटीयम्’ इति ग्रन्थं लिखितवान् इति च ज्ञायते । एषः स्वस्य २३ तमे वयसि एव एतं सिद्धान्तप्रतिपादकं श्रेष्ठं ग्रन्थं रचितवान् आसीत् । एतस्मात् एव वयम् ऊहितुं शक्नुमः यत् एतस्य प्रतिभा कीद्दशी आसीत् इति । आर्यभटीयग्रन्थे महासङ्ख्याः अपि संज्ञारूपेण कथं सङ्ग्रहेण लेखनीयाः इति विषयः, वर्ग-घनमूल-त्रिभुजादिगणितविषयाः, कटपयादिसंज्ञाक्रमः, कालविभाग-नक्षत्रगति-भगण-दिनरात्र्यादिविषयाः चापि विवृताः सन्ति । ‘मया नूतनतया किमपि न उच्यते, पूर्वजैः उक्तम् एव स्फुटतया निरूप्यते’ इति स्वग्रन्थे उक्तवान् अस्ति एषः । पञ्चाङ्गकर्तारः बहवः एतस्य सिद्धान्तम् एव अनुसरन्ति ।

रामायण ( Sanskrit Essay on Ramayana )

रामस्य अयनं (चरितं) रामायणम् । रामायणम् आदिकाव्यं सर्वेषां काव्यानां जीवातुभूतं च भवति । रामायणं महाभारतवत् कश्चित् इतिहासग्रन्थः भवति । संस्कृतसाहित्ये रामायणवत् प्रसिध्दः लोकप्रियः च अन्यः ग्रन्थः नास्तीति वक्तुं शक्यते । नीतिदृष्ट्या काव्यात्मकदृष्ट्या लोकोपकारकदृष्ट्या च रामायणस्य महत्त्वं वर्धते । पितृपुत्रधर्मस्य पतिपत्नीधर्मस्य भ्रातृधर्मस्य तथा अन्यकौटुम्बिकधर्मस्य च आदर्शभूतः अयं ग्रन्थः ॥ आदिकाव्यस्य रामायणस्य कर्ता श्रीमद्वाल्मीकिः । श्रीवाल्मीकिः पूर्वं कश्चित् तस्करः आसीत् रत्नाकरः इति नाम्ना । सप्तर्षीणां दर्शनानन्तरं राममन्त्रजपपूर्वकतपसा रत्नाकरः वाल्मीकिः संजातः । रामायणे न केवलं युध्दमात्रं वर्णितम अपि च सकलालङ्काराणां प्रकृतिसौन्दर्यस्य च् धर्मस्य च वर्णना दृश्यते । सरलसंस्कृतभाषापठनार्थम अत्यन्तओपयिगि साधनं च भवत्येतत् ॥
रामायणम् आदिकव्यम् इति प्रसिद्धम्। इतिहासग्रन्थः इत्यपि भाव्यते एतत्। एतस्य ग्रन्थस्य रचयिता वाल्मीकिः। किरातकुले उत्पन्नः सः नारदस्य उपदेशात् तपः अकरोत्। तस्य शरीरम् आवृत्य वल्मीकः उत्पन्नः। ततः सः बहिः आगतः इत्यतः तस्य नाम 'वाल्मीकिः' इति काचित् कथा श्रूयते।

भारतस्य राजधानी - दिल्ली ( Sanskrit Essay on Delhi )



दिल्ली अथवा देहली भारतस्य राजधानी अस्ति। नवदिल्ली पश्यतु। भारतस्‍य राज्येषु अन्यतमम् अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य तृतीया बृहती नगरी वर्तते । दिल्ली इत्यपि विश्रुता इयं नगरी पाचीनकाले हस्तिनापुरमिति ख्याता आसीत् । इन्द्रसभायामपि सभाजितानां भरतकुलोत्पन्नानां महीपालानां राजधानी अद्यतनीया देहली एव । मुगलवंशीयानां चक्रवार्तिनां तथा आङ्गलानामपि अधिकारिणां केन्द्रभूमिर्भूत्वा देहली अधुनापि भारतीयगणराज्यस्य राजधनीपदमलङ्करोति ।
सर्वेषु प्रेक्षणीयेषु स्थानेषु बिर्लामन्दिरमिति ख्यातं लक्ष्मीनारायणमन्दिरं विशेषतया उल्लेखनीयम् । यतः मन्दिरमिदं भारतीयचरित्रं संस्कृतिञ्च प्रकटयति तथा भृशं विस्मयमपि जनयति ।  दिल्ल्यामेव भारतदेशस्य जीवननिरूपकं संसद्भवनम् अस्ति । अत्रैव उच्चतमन्यायप्रदाता अत्युच्चन्यायालयो वर्तते । सर्वप्रधानपदमलङ्कृतवान् राष्ट्रपतिः देहल्याम् एव विराजते । अतः देहली भारतस्य हृदयमेव यमुनातीरे परिविस्तृता देहली दशाधिकक्रोशमितभूभागम् आक्रम्य अवतिष्ठते । क्रिस्तपूर्वप्रथमशतकस्य मौर्याधिपेन छिलिना छिल्लीति नामाङ्कितेयं नगरी तदनन्तरं दिल्ली बभूव । नगरीयं पुराणनवोपभागाभ्यां द्विधा विभक्ता । देहलीनगर्याः नासिकाभरणमिव चान्दनीचौकस्थानम् अत्र विराजते । पत्तनेऽस्मिन् लोहितदुर्गं, कुतुबमीनार्, जन्तर्-मन्तर्, इण्डियागेट, लक्ष्मीनारायणमन्दिरं , तीनमूर्तिभवनं, विज्ञानभवनं, मुगलवास्तुशिल्पम् अनुसृत्य विरचितानि भवनानि चेत्यसङ्ख्यानि प्रेक्षणीयस्थानानि सुशोभन्ते । 

महाराष्ट्र ( Sanskrit Essay on Maharashtra )

महाराष्ट्रं भारतस्‍य पश्‍चिमे कश्चन प्रान्‍त: अस्‍ति। मुम्बयी इति महाराष्ट्रराज्यस्य राजधानी। अन्यानि नगराणि नागपुरंपुणेसोलापुरम् इत्यादयः। भारतस्य ९.८४% क्षेत्रफलं महाराष्ट्रराज्ये अस्ति। महाराष्ट्रस्य जनसन्ख्या ९,६७,५२,२४७ मिता । जनसंख्यायाः घनत्वम् ३१४.४२ जनाः प्रति वर्ग किमी. इत्यस्ति। महाराष्ट्रम् अतीव धनसम्पन्नम् राज्यम् अस्ति। अयं प्रान्तः भारतस्य सकलगृहोत्पादने १३.२% , औद्योगिक उत्पादने च १५% च योगदानं करोति
महाराष्ट्रस्य पश्चिमे सिन्धुसागरः, उत्तरे दादरा ,नगर हवेली, मध्यप्रदेशः च, तस्य पूर्वदिशायां छत्तीसगढ़ः दक्षिणपूर्वदिशायाम् आंध्रप्रदेशः तथा दक्षिणदिशायां कर्नाटकं गोवा च इति राज्यानि सन्ति। महाराष्ट्रस्य क्षेत्रफलं ३,०७,७३१ वर्ग किमी. अस्ति. भारतस्य ९.८४% क्षेत्रफलं महारष्ट्ररज्ये अस्ति.
सह्याद्री पर्वतमाला (वा पश्चिमघट्ट:) महाराष्ट्रस्य तीरस्य समान्तरम् अस्ति। तस्याः पश्चिमे कोङ्कण-तटप्रदेश: वर्तते। पर्वतमालायाः पूर्वदिशायां दक्खन् अधित्यका: सन्ति। एष: बह्वीनां नदीनां स्रोतःअस्ति।

पशवः ( Sanskrit Essay on Animals 



पशवः जीविनः वर्तन्ते। ते स्वभोजनं रचयितुं न शक्नुवन्ति। अतः ते अन्यान् पशून् पादपान् अथवा गोलासान् भक्षयन्ति। केचन पीठमर्दाः(नायकस्य साहय्यका:) अपि सन्ति। अस्मिन् जगति अनेकाः पशुजातयः सन्ति। केचन पशवः विशालाः केचन लघवः सन्ति। केचन पशवः जलवासिनः सन्ति। केचन पशवः उड्डयनॆ समर्था:।
शाकभक्षकाः पादपान् खादन्ति। मांसभक्षकाः अन्यान् पशून् भक्षयन्ति। उभयभक्षकाः पशून् पादपान् च खादन्ति।
केचन पशवः सङ्गे वसन्ति। अन्ये पशवः एकचारिणः सन्ति। भ्रमराः करण्डे वसन्ति। तेषां नेत्री भ्रमर-राज्ञी इति कथ्यते।
लोकेSस्मिन् विविधाः पशवः सन्ति। तान् यथावर्गं रचयितुम् शक्नुमः। तेषु द्वौ प्रमुखौ वर्गौ स्तः अस्थिमन्तः अनस्थिमन्तः च। कर्कटाः वृश्चिकाः प्रवालाः कीटाः षट्पदाः शम्बूकाः च अनस्थिमन्तः सन्ति। अस्थिमत्सु पञ्चवर्गाः सन्ति। ते मत्स्याः मण्डूकादयः सर्पादयः पक्षिणः कशिनः च।

अमेरिका-संयुक्त-संस्थानम् ( United States Of America )

अमेरिका-संयुक्त-संस्थानम् | उत्तर अमेरिका खंडे एकः देशः अस्ति। अस्मिन् देशे ५० राज्यानि सन्ति। देशस्य राजधानीवाषिंग्टन् डी सी नगरम्। अट्लांटिक् महासागरःपेसिफ़िक् महासागरः च एतं देशं परितः स्त:। उत्तरदिशि केनडा देश: अस्ति।

महाभारतम् ( Sanskrit Essay on Mahabharata )

महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्दं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव।

महात्मा गान्धिः ( Sanskrit Essay on Mahatma Gandhi )



महात्मा गान्धिः इति प्रसिद्धः मोहनदासकरमचन्दगान्धिः (१८६९-१९४८) गुजरातस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कवि: रवीन्द्रनाथठाकुर: तं महात्मा इति शब्देन सम्बोधितवान् । तत: पश्चात् सर्वे भारतीया: तं महात्मा गान्धिः इति एव अभिजानन्ति ।भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धिः स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्ती पर्व राष्ट्रियपर्वरुपेण आचर्यते । दक्षिण-आफ्रिकादेशेऽपि महात्मा गान्धिः उत्तमं कार्यं कृतवान् ।
अस्य पिता श्री करमचन्दगान्धिः राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदासगान्धिः साधारणबालकः आसीत् । मोहनदासगान्धिः राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदय: सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रत: आसीत् । स: वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।

जवाहरलाल नेहरुः ( Sanskrit Essay on Javaharlal Nehru )



जवाहरलाल नेहरुः (१८८९-१९६४) प्रयागे जात: ।
सः भारतवर्षस्य सर्वाधिककालपर्यन्तं नेतृत्वं कृतवान् तथा च प्रथमः प्रधानमन्त्री आसीत् ।१९४७तः-१९६४तमवर्षपर्यन्तं स: भारतस्य प्रधानमन्त्री आसीत्‌ ।
तस्य पितुः नाम मोतीलालनेहरुः । मातु: नाम स्‍वरूपरानी इति । केम्ब्रिजविश्‍वविद्यालये स्‍नातकपरीक्षाम्‌ उत्तीर्य स: विधिवेत्ता अभवत्‌। तस्य ब्राह्‍मणकुलोत्‍पन्‍नया कमलया सह विवाह: सम्पन्‍नः।
भारतदेशस्य स्वातन्त्र्यम् आगस्ट १५ दिनाङ्के १९४७ वर्षे अभवत् । तदा नेहरु ध्वजारोहणम् अकरोत् । प्रजाप्रभुत्वविषये नेहरु गुणत्वम् अपश्यत् इष्टवान् च। सः सेक्यूलरिसं, लिबरलिसं च इष्टवान् । दरिद्रेभ्यः दीनेभ्यः च साहाय्यकरणं तस्य प्रवृत्तिः आसीत् । नेहरुमहोदयस्य एतादृशाः गुणाः अस्माकं देशस्य संविधानरचनायां सहकरिणः अभवन् । देशस्य औन्नत्यर्थं प्रपञ्चे ये हितकारिणः गुणाः आसन् तान् अत्र स्थापितवान् । तस्य पुत्री इन्दिरा तथा दौहित्रः राजीवः स्वयं देशसेवां कर्तुकामौ देशस्य प्रधानमन्त्रिणौ अभवताम् 

हिमालयः ( Sanskrit Essay on Himalaya )


भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । “हिमालयः” इति नामश्रवणमात्रेण सर्वस्य अपि हिन्दोः हृदयं विकसितं भवति, अनेके दिव्यभावाः सञ्चरन्ति, रोमाञ्चः सञ्जायते च । अस्माकं संस्कृतेः पृष्ठभूमिका अस्ति हिमालयः । अस्मत्पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? कुत्र कुत्र जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः ।
हिमालयः हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराः अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः (हिम+आलयः) इत्यर्थः ।
हिमालयपर्वतश्रेणी पश्चिमदिशि ‘नङ्गापर्वत’तः पूर्वदिशि ‘नाम्चे बर्वा’ पर्यन्तं प्रायः २४०० कि.मी.दीर्घः वर्तते। अस्य विस्तीर्णता २५०*३०० कि.मी .हिमालयश्रेणिषु अनेकाः हिमनद्यः सन्ति । ध्रुवप्रदेशं विहाय प्रपञ्चे अतिदीर्घा हिमनदी सियाचिन अत्रैवास्ति ।

मयूरः ( Sanskrit Essay on Peacock )

मयूरः सर्वेषु पक्षिषु सुन्दरतमः अस्ति । तस्य मनोहरः बर्हः भवति । अतः एव अस्य बर्ही इति नाम । मयूरीणां तु बर्हः नास्ति । प्रायशः अयम् अरण्ये निवसति । मयूराः वर्षाकाले एव अधिकं कूजन्ति । कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति । मयूरस्य केकी, भुजङ्गभुक्, शिखी, नीलकण्ठः इत्यादीनि नामानि सन्ति । मयूरस्य पुच्छं दीर्घं भवति । पुच्छी पिञ्छाः भवन्ति बहवः । प्रतिपिञ्छम् ‘चन्द्रक’नामकं नेत्राकारकम् अर्धचन्द्राकारकं वा चिह्नं भवति । यदा सः पुच्छं प्रसारयति तदा सहस्त्रनेत्रयुक्तताभ्रमः जायते ।

स्वामी विवेकानन्दः ( Sanskrit Essay on Swami Vivekananda )

सन्ति बहवो भारतस्य वरपुत्राः येषु अविस्मरणीयः स्वामी विवेकानन्दः। सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्। बङ्गप्रान्तस्य कोलकातानगरे त्रिषष्ठ्यधिकाष्टादशशततमे (१८६३) वर्षे जनवरी मासस्य द्वादशे दिने एतस्य जन्म अभवत्। तस्य पिता श्री विश्वनाथदत्तमहोदय:| पूर्वं तस्य नाम नरेन्द्रनाथदत्तः इति आसीत्। एषः उत्साही, हास्यप्रियः, करुणापरः च आसीत्। नरेन्द्रः बाल्ये कपीन्, मयूरान्, कपोतान् च पालयति स्म। एषः पितुः हयान् अपि रक्षति स्म। अध्ययनपटुरयं नरेन्द्रः शास्त्रीयसङ्गीतस्य अभ्यासं करोति स्म। प्रतिदिनं व्यायामं करोति स्म। ध्यानसिद्धः अयं भ्रूमध्ये ज्योतिरेकं पश्यति स्म। ईश्वर-जिज्ञासुः अयं सर्वान् पृच्छति स्म यत् किं भवान् ईश्वरं दृष्टवान्? इति। ईश्वरं ज्ञातुं पाश्चात्यदर्शनस्य भारतीयदर्शनस्य च गभीरम् अध्ययनं कुर्वन् अयं नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्। अस्मिन्नेव समये दैवयोगात् दक्षिणेश्वरस्थे कालीमन्दिरे परमहंसस्य रामकृष्णदेवस्य दर्शनं तेन प्राप्तम्। रामकृष्णमुद्दिश्य नरेन्द्रः पृष्टवान् ‘किं भवान् ईश्वरं दृष्टवान् ?’ इति। ‘आम्। त्वामिव ईश्वरमपि पश्यामि’ इति श्रीरामकृष्णदेवः स्मयमानः अवदत्। एष एव महापुरुषः नरेन्द्रस्य अध्यात्म-गुरुः अभवत्।

सरस्वती ( Sanskrit Essay on Sarswati )

           ऋग्वेदे उल्लिखिता काचित् नदी एषा । सरः(जलम्) अस्त्यस्याः इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या वाक् उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि शारदावागीश्वरीब्राह्मीमहाविद्या इत्यादीनि । सृष्टिकर्तुः ब्रह्मणः पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।

कालिदासः ( Sanskrit Essay on Kalidas )

साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् । एकदा गुरुनाथः वर्गे एकं श्लोकं पाठितवान् यत् –
जम्बूफलानि पक्वानि
पतन्ति विमले जले ।
कपिकम्पितशाखाभ्यः
गुळुगुग्गुळु गुग्गुळु ॥ इति ॥
एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृतीः पठितुम् आरब्धवान् ॥
भिन्नभिन्नपुस्तकपठनतः अहं ज्ञातवान् यत् कालिदासस्य कालं, जन्मस्थानं किमधिकं कृतिः च अधिकृत्य पण्डितानां समानाभिप्रायः नास्तीति । तथापि कालिदासः उज्जयिन्यां षष्टशतके जातः इति सामान्याङ्गीकारः अस्ति च । एतत् सर्वं पठित्वा मम एवमभासत कालिदासः जनिं न प्राप्तवान् इति इतिहासकाराः वदन्ति चेदपि तस्य अस्तित्वं न नश्यति यावत् एकः श्लोकः जीवति । अत एव कालिदासस्य देशकालादिविषये चर्चाकरणसमयेन द्वित्रान् वा श्लोकान् पठति चेत् वरम् । तदानीं विक्रमादित्यसदसि नवरत्नेष्वन्यतमः कालिदासः भोजराजेन सह सल्लापं कुर्वन् प्रत्यक्षीभवति ॥

माता ( Sanskrit Essay on Mother )



यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | संस्कृतभाषायां जननि, जन्यत्रि, अम्बा, सवित्री, अम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |
शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु अम्बायै ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं अम्बया विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि अम्बया विना जीवनं बहु कष्टं भवति |
भारत देशे स्वमातरं अपेक्षया तरव:, नद्य:, जन्मभूमि:, भाषा: इत्यादय: अपि मातृवत् पूजनीया: इति मन्यते | प्रथमतया श्रीमद्रामायण महाकाव्ये "जननि जन्मभूमिश्च स्वर्गादपि गरीयसि" इति श्लोक: वर्तते | तादृशा: श्लोका: विविधेषु प्राचीनेषु ग्रन्थेषु अपि वर्तन्ते |

दीपावलिः ( Sanskrit Essay on Diwali )

दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति । भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।

स्वातन्त्र्यदिनोत्सवः ( Sanskrit Essay on Independence Day )

              भारतस्वतन्त्रतादिनम्  'अगस्त'-मासस्य पञ्चदशे (१५/८) दिनाङ्के राष्ट्रियोत्सवत्वेन आभारते आचर्यते । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य पञ्चदशे दिनाङ्के भारतगणराज्यं स्वतन्त्रम् अभवत् । अतः एतद्दिनं भारतस्वातन्त्र्यदिनोत्सवत्वेन आचर्यते । तत्पूर्वं ब्रिटिश-जनाः भारतस्योपरि शासनं कुर्वन्ति स्म । १९४७ तमस्य वर्षस्य 'अगस्त'-मासस्य चतुर्दशे (१४/८/१९४७) दिनाङ्के मध्यरात्रौ द्वादशवादने आङ्ग्लाः भारतगणराज्यस्य शासनं भारतीयेभ्यः यच्छन्तः भारतत्यागम् अकुर्वन् । भारतस्वतन्त्रतायाः तत् दिनं भारते राष्ट्रियपर्वत्वेन आचर्यते ।

             स्वातन्त्र्योत्सवस्य प्रमुखः कार्यक्रमः देहली-महानगरस्थे रक्तदुर्गे (लालकिला, red fort) भारतगणराज्यस्य राष्ट्रपतेः भाषणेन आरभते । ततः प्रधानमन्त्रिद्वाराध्वजारोहणं भवति । अनन्तरं प्रधानमन्त्री सर्वकारस्य कार्याणां योजनां प्राकटयन् सर्वेभ्यः शुभाशयं यच्छति । ततः सर्वेषां राज्यानां राजधानीषु मुख्यमन्त्रिणःध्वजारोहणं कृत्वा जनेभ्यः शुभाशयं यच्छन्ति ।

           स्वातन्त्र्यदिने प्रातः सप्तवादने ध्वजारोहणस्य कार्यकालः । ततः भारतगणराज्यस्य राष्ट्रपतिः देशं सम्बोध्य भाषणं करोति । राष्ट्रपतेः भाषणानन्तरंभारतगणराज्यस्य प्रधानमन्त्री देशं सम्बोधयति । तस्मिन् दिने भारतीयत्रिवर्णध्वजः सर्वत्र विराजते ।

गणतन्त्रदिनम् ( Sanskrit Essay on Republic Day )

भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।


गणतन्त्रदिनस्य अलङ्कारः
प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति । जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति । देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत् ।

सूर्यः ( Sanskrit essay on Sun )

सूर्यः किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिष्शास्त्रदृष्ट्या अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति । तदीयाः किरणाः भूमेः उपरि अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्य आकर्षणपरिधौ एव अन्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावः अस्ति अनन्यः। सूर्यं विना मानवजीवनस्य कल्पना अपि अशक्या एव। सूर्यस्य व्यासः भवति ८,६५,००० मैल्-परिमितम् । भूमेःविस्तारस्य अपेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिः भूमेः अपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनकः हीलियं-धातुरूपेण परिवर्तिताः भवन्ति इत्यतः द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितः भागः न्यूनः भवति । सूर्यः यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतः बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।

गणेशचतुर्थी ( Sanskrit Essay on Ganesh Chaturthi )

प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः । शिवगणानाम् अधिपतिः, विघ्ननिवारकः, आदिपूज्यः च । आदावेव समस्तकर्मसु बलिं गृह्णाति भक्तार्पितम् इति वाक्यमेव सः आदिपूज्यः इत्यंशं समर्थयति । पञ्चायतनदेवतासु अपि अन्यतमः अस्ति गणेशः । जगतः सृष्टि-स्थिति-लयकारकः अपि सः एव । सर्वमयः सः परमात्मा । त्वमेव केवलं कर्तासि, त्वमेव केवलं धर्तासि, त्वमेव केवलं हर्तासि, त्वमेव सर्वं खल्विदं ब्रह्मासि, त्वं साक्षादात्मासि नित्यं, त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वंब्रह्म्भूर्भुवस्सुवरोम् इत्याशयं प्रकाशयति गाणपत्यथर्वशीर्षमहोपनिषत् । पुराणे इतिहासा गमादिषु तस्य रूप-महिमा-उपासनादिकं स्पष्टतया निरूपितम् अस्ति । कलौ दुर्गाविनायकौ इति वाक्यानुसारं गणेशः अस्मिन् कलियुगे सर्वत्रापि विशेषपूजां प्राप्नुवन्नस्ति । न केवलं भारते तस्य आराधनं क्रियते अपि तु बर्मा, मलेश्या,इण्डोनेशियाचीना, सुमात्रा, जावा, जपान् इत्यादिषु देशेषु अपि पूजां प्राप्नोति गणेशः ।

नदी ( Sanskrit essay on River )

नदी इति नैसर्गिको जलमार्गः भवति, प्रायेणैतत् जलं मृदुजलं भवति। जलमेतत् महासागरं प्रति, कासारं प्रति, समुद्रं प्रति अथवा अन्यां काञ्चित् नदीं प्रति प्रवहद्भवति। केषुचिच्च प्रकरणेषु, नदी तु धरातलस्य अन्तरे गच्छति, अथवा अन्यं किञ्चित् जलाशयं अप्राप्यैव शुष्यति। नदी इत्यस्य भौगोलिकपदस्य प्रयोगार्थं आधिकारिकपरिभाषा न विद्यते। यद्यपि केषुचित् देशेषु समुदायेषु वा धारायाः आकारमनुसृत्य तेषां परिभाषाः भवन्ति। नद्यस्तु जलचक्रस्य भागभूताः। नद्याः जलं तु अपवाहक्षेत्रवर्तिना अवक्षेपणेन (प्रायेण वर्षा इत्याख्यम्) सङ्गृहीतं भवति।एतस्य संग्रहणं तु धरातलीयप्रवाहेन, भूजलारोपणेन, जलोत्स्रुतेन, नैसर्गिकहिमाद् हिमपुटेभ्यो वा भण्डारितजलस्य मोचनेन भवति (यथा हिमानीभ्यः)। नदीशास्त्रं तु आङ्ग्लभाषायां पोटॅमोलॉजी इत्युच्यते सर्वसामान्यानां धरामध्यवर्तिजलानाम् अध्ययनं तु आङ्ग्लभाषायां लिम्नोलॉजी इत्युच्यते।

जलम् ( Sanskrit essay of Water )

जलम् एव जीवनम् इति उक्त्यनुसारम् अस्माकं जीवने जलस्य आवश्यकता वर्तते । जीवनाय जलम् आवश्यकं वर्तते । तृष्णायां सत्यां जलेन एव निवारणं भवति । पृथिव्याः जीवानां कृते आवश्यकं तत्त्वम् अस्ति जलम् । अस्माकं सौभाग्यम् अस्ति यत् पृथिवी जलीयः ग्रहः वर्तते । जलं सौरमण्डले दुर्लभं वर्तते । अन्यत्र कुत्रापि जलं नास्ति । पृथिव्यां जलं पर्याप्तम् अस्ति । अतः पृथिवी नीलग्रहः इति उच्यते । जलं निरन्तरं स्वरूपं परिवर्तते । सूर्यस्यतापेन वाष्पस्वरूपं, शीतले सति सङ्घनीकरणे मेघस्वरूपं, वर्षामाध्यमेन जलस्वरूपं धरति । जलं महासागरेषु, वायुमण्डले, पृथिव्यां च परिभ्रमति । जलस्य तत्परिभ्रमणं जलचक्रं कथ्यते ।
अस्माकं पृथिवी स्थलशाला इव अस्ति । अलवणस्य जलस्य मुख्यं स्रोतः नदी, तडागः, हिमनदी च वर्तते । महासागराणां, समुद्राणां च जलं लावण्यं वर्तते । तस्मिन् जले सोडियम् क्लोराइड्, पाचकलवणं च प्राप्यते ।

विद्या ( Sanskrit Essay on knowledge "Vidya" )

भारतीयसङ्कल्पानुसारं विद्याविनयसम्पत्तिः विनयाधानम् इत्यादिप्रयोगः एव साधु । यतः विद्या ददाति विनयम् इति खलु प्रसिध्दम् । प्रामाणिकग्रन्थेषु विद्याभ्यासः इति पदप्रयोगः अपि न दृश्यते विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि इत्येवं भगवद्गीतायां प्रयोगः अनेन प्रयोगेण अस्य लक्ष्यमपि अवगच्छति । विनयनमेव विद्यया प्राप्तव्यम् । अपरया भाषया वदामः चेत् स्वभावसंस्करणमेव शिक्षणम् इति भावः । श्रीमद्विवेकानन्दस्वामिपादादयः स्वभावसंस्करणमेव शिक्षणमिति स्पष्टीकुर्वन्ति च । अत एव कथयामः विद्याविहीनः पशुः इति ॥
विनयः गुणसंस्कारः चेत् तदर्थ सर्वसमर्पणम् एव मार्गः । गुरुसमर्पणं, गुरुशुश्रूषा, योगाभ्यासः, अध्यात्मशास्त्रपठनम्, ब्रह्मचर्यम्, श्रवण-मनन निदिध्यासनादयः च इच्छाशक्तेः ज्ञानशक्तेः क्रियाशक्तेः च वर्ध्दनम् कारयन्ति । तत् पुरुषार्थसाधनाय समर्थः मार्गः भवति च ।

भारतस्य राष्ट्रध्वजः 

भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेणसुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । राष्ट्रध्वजस्य परिकल्पना पिङ्गलि वेङ्कय्य-नामकेन देशभक्तेन कृता आसीत् ।भारतस्वतन्त्रतादिनात् पञ्चविंशतिदिनेभ्यः पूर्वम् अर्थात् १९४७ तमस्य वर्षस्य 'जुलाई'-मासस्य द्वाविंशतितमे (२२/७/१९४७) दिनाङ्के भारतीयसंविधानसभा एनं ध्वजं राष्ट्रध्वजत्वेन स्व्यकरोत् ।
राष्ट्रध्वजे समानलम्बमानयुक्ताः, समानदीर्घतायुक्ताः तिस्रः पट्टिकाः सन्ति । तासु पट्टिकासु सर्वोपरि केसरवर्णीया, मध्ये श्वेतवर्णीया, अन्तिमे हरितवर्णीया पट्टिका च अस्ति । ध्वजस्य मध्यभागे अर्थात् श्वेतपट्टिकायाः मध्यभागे नीलवर्णीयम् अशोकचक्रं विद्यते । तस्य चक्रस्य चतुर्विंशतिः अराः सन्ति । तस्य चक्रस्य व्यासः श्वेतपट्टिकायाः दीर्घतानुगुणं भवति । महात्मना प्रचारितेन खादि-वस्त्रेण निर्मितः राष्ट्रध्वजः एव सांविधानिकरीत्या मान्यः । कोऽपिरेशम-वस्त्रेण निर्मितस्य राष्ट्रध्वजस्य यदि उपयोगं कर्तुम् इच्छति, तर्हि कर्तुं शक्नोति ।

संस्कृतवाङ्मयम्

संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति । संस्कृते किं नास्ति ? इति आधिकारिकतया प्रतिप्रश्नं कर्तुं सामर्थ्यं न भवति संस्कृतच्छात्रस्य अतः एव सस्कृतस्य एतादृशी स्थितिः । अद्यतनसंस्कृतच्छात्रः अजपालितसिंहशिशुः इव अस्ति । तस्य आत्मविस्मृतिः सञ्जाता अस्ति । स्वाभिमानः तस्मिन् न जागर्ति । अतः दिशादर्शनार्थं किञ्चिदत्र प्रयतते ॥
संस्कृतवाङ्मयं द्विधा विभक्तुं शक्यम्-आध्यात्मिकं भौतिकं चेति । आध्यात्मिकं नाम केवलं देवस्तुतिपरं न । तत्र सर्वे शास्त्रीयविषयाः अपि अन्तर्भवन्ति । वेदाः, वेदाङ्गानि, उपवेदाः पुराणानि, इतिहासः, धर्मशास्त्रं, दर्शनानि इत्यादयः सर्वे आध्यात्मसाहित्यशब्देन निर्दिश्यन्ते ।पुराणादयः विविधशास्त्रतत्त्वानि प्रतीकात्मकतया निरुपयन्ति । दशावतारकथा परिणामघट्टं निरुपयति । हयग्रीवकथा मनुष्यहययोः मस्तिष्कसाम्यं प्रतिपादयति । एतादृशानि बहूनि उदाहरणानि प्रदर्शयितुं शक्यानि ॥
भौतिकविषयेषु साहित्यं, सामूहिकं, विज्ञानं चेति त्रयः भागाः । विज्ञाने तु गणितं, भौतशास्त्रं रसायनशास्त्रं , जीवशास्त्रं, ज्योतिश्शास्त्रम् इत्यादयः गण्यन्ते । सामूहिके इतिहासः अर्थशास्त्रं राज्यशास्त्रं भूगर्भशास्त्रं इत्यादयः अन्तर्भवन्ति ।साहित्ये च दृश्यश्रव्यमिश्रभेदाः परिगण्यन्ते ॥
संस्कृतस्य आध्यात्मिकं साहित्यपरं च वैशिष्ट्यं सर्वैः ज्ञातचरम् एव इत्यतः तदत्र न परामृश्यते ॥

स्वच्छभारताभियानम्

स्वच्छभारताभियानम् इत्याख्यं महाभियानं भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषितम् । २०१४ तमस्य वर्षस्य अप्रैल-मासस्य द्वितीये (२ / १०/ २०१४) दिनाङ्के स्वच्छभारताभियानस्य आरम्भः अभवत् । २/१० दिनाङ्केभारतगणराज्यस्य पूर्वप्रधानमन्त्रिणः लाल बहादूर शास्त्री-महोदयस्य, राष्ट्रपितुः महात्मनः च जन्मदिवसत्वेन आभारतम् उत्सवः आचर्यते । तयोः महापुरुषयोः संस्मरणार्थं २/१० दिने तस्य स्वच्छभारताभियानस्य आरम्भः अभवत्  ।

 २०१४ तमस्य वर्षस्य अगस्त-मासस्य पञ्चदशे (१५/८/२०१४)                              दिनाङ्के स्वतन्त्रतादिनपर्वणि भारतगणराज्यस्य प्रधानमन्त्रिणा नरेन्द्र मोदी-महाभागेन उद्घोषणा कृता आसीत् यत्, स्वच्छभारताभियानं २/१० दिनाङ्कात् महात्मजयन्तीपर्वदिनात् आरप्सयते इति । २०१४ तमस्य वर्षस्य अक्तूबर-मासस्य द्वितीये (२/१०/२०१४) दिनाङ्के नवदेहली-महानगरस्थे राजघाटे प्रधानमन्त्री नरेन्द्र मोदी भारतं न्यवेदयत्, "सर्वे स्वच्छभारताभियाने योगदानं यच्छन्तु" इति । तस्मिन् दिने स्वयं प्रधानमन्त्री स्वहस्ते मार्जनीं धृत्वा नवदेहली-महानगरस्थे मन्दिरमार्गे स्वच्छताकार्यं प्रारभत ।

होली ( Sanskrit Essay on Holi )

होलाक:, होलीक:, होली, फाल्गुनिका, वसन्तोत्सव:, कामपर्व इत्यादिभि: नामभि: निर्दिश्यमानम् एतत् पर्व समग्रे भारते सर्वत्रापि आचर्यते । फाल्गुणपूर्णिमायाम् एतत् पर्व आचर्यते । वङ्गदेशे अस्मिन् दिने एव श्रीकृष्णस्य दोलोत्सवम् आचरन्ति । होलीपर्वसम्बद्धा: बह्व्य: कथा: सन्ति पुराणेषु ।

होलिकानामिका हिरण्याक्ष-हिरण्यकशिपो: सोदरी । महामायाविनी सा अग्निसिद्धिम् अपि प्राप्तवती आसीत् । यद्यपि दैत्यराज: हिरण्यकशिपु: परमविष्णुभक्तं स्वपुत्रं प्रह्लादं मारयितुं बहुविधप्रयत्नानि अकरोत् तथापि स: सफल: नाभवत् । तस्मात् कुपित: हिरण्यकशिपु: सोदरीं होलिकाम् आदिशति प्रह्लादं मारयतु कथञ्चित् इति । तदा होलिका प्रह्लादं गृहीत्वा महाकाष्ठराशौ उपविशति । राक्षसान् च अग्निं ज्वालयितुं सूचयति । तेषां चिन्तनम् आसीत् होलिका अग्निसिद्धिं प्राप्तवती अस्ति, तस्या: किमपि न भवति । प्रह्लादम् अग्नि: दहति इति । अत: राक्षसा: होलिकाया: उपरि अपि काष्ठानि संस्थाप्य अग्निं ज्वालितवन्त: । किन्तु परिणाम: तु व्यतिरिक्त: जात: । होलिका तदग्नौ दग्धा सती तत्रैव मरणं प्राप्नोत् । भगवद्भक्त: प्रह्लाद: भस्मराशित: बहिरागत्य सन्तोषेण नृत्यम् आरभत । अस्य दिनस्य स्मरणार्थं राक्षसत्वनाशाय सत्पुरुषरक्षणाय च होलीपर्व आचर्यते ।

Sanskrit Books संस्कृतग्रन्थाः