चक्रासनं योगासनेषु अन्यतमम् ।
आसनकरणविधिः
- शवासने शयनं करोतु ।
- जानुतः पादद्वयं पुटीकृत्य, गुल्फद्वयं नितम्बयोः समीपं स्थापयतु ।
- करतलद्वयं मस्तकम् उभयतः स्थापयतु ।
- शनैः शनैः हस्तद्वयं पादद्वयं च दृढतया भूमिं नोदयन् पूरकं कुर्वन् शरीरभागम् ऊर्ध्वदिशि उत्थापयतु ।
- मेरुदण्डः वक्राकारेण भवतु ।
- शरीरं चक्रवत् शोभते ।
- पञ्चनिमेषान् यावत् अस्याम् अवस्थायां स्थित्वा शनै शनैः रेचकपूर्वकं सामान्यावस्थां प्रति आगच्छतु ।
लाभः
- मणिबन्धः, बाहू च दृढौ भवतः ।
- मस्तकं प्रति रक्तसञ्चालनं सम्यक् भवति ।
- वक्षस्थलस्य पेशीनां, श्वासकोषस्य च सम्प्रसारणत्वात् श्वासक्रिया सुलभा भवति ।
कूर्मासनं योगासनस्य एकम् आसनमस्ति ।
आसनकरणविधिः
- वज्रासने उपविश्य कूर्परद्वयं नाभिम् उभयतः स्थापयित्वा चिवुकं करतलद्वये स्थापयतु ।
- रेचकेण शरीरं शनैः शनैः अग्रे नयतु ।
- तस्यामवस्थायाम् निमेषमेकं स्थिरं तिष्ठतु ।
- ततः पूरकेण शनैः शनैः वज्रासनं प्रति आगच्छतु ।
- त्रिवारं चतुर्वारं वा करोतु ।
लाभाः
- अग्न्याशयः सक्रियः भवति ।
- अग्न्याशये ‘इनसुलिन्’ इत्यस्य निर्माणम अनायासेन भवति ।
आसनकरणविधिः
- भूमौ पादद्वयं शरीरमुभयतः प्रसार्य दण्डायमानो भवतु ।
- शनैः पूरकेण हस्तद्वयमुत्थाप्य स्कन्धमुभयतः प्रसारयतु ।
- करतलद्वयं भूमिं निर्दिश्य स्थापयतु ।
- रेचकेण वामह्स्तं शनैः शनैः वाम पादं प्रति अधः आनीय वामपादं स्पृशतु ।
- दक्षिहस्तम् ऊर्ध्वम् उत्तोलयतु ।
- दक्षिणबाहुना दक्षिण्कर्णं स्पृशतु ।
- दक्षिणहस्तं मस्तकं च वामपार्श्वं प्रति अवनमयतु ।
- वामह्स्तेन वामपादं दृढं गृहीत्वा पुरतः पश्यतु ।
- निमेषद्वयम् अस्यामवस्थायां तिष्ठतु ।
- पुनः पूरकेण दक्षिणहस्तम् ऊर्ध्वमुत्तोल्य शनैः शनैः रेचकेण पूर्वावस्थामागच्छतु ।
- पुनः दक्षिणहस्तम अधः आनीय पूर्ववत् करोतु ।
लाभः
- ग्रीवा स्कन्धादीनां ग्रन्थीनां पीडाः अपगच्छन्ति ।
- मेरुदण्डः सन्तुलितः भवति ।
- योगासनेषु अन्यतममस्ति धनुरासनम् ।
आसनकरणविधिः
- उदरमवलम्ब्य शयनं करोतु ।
- जानुतः पादद्वयं पुटीकरोतु ।
- जानुद्वयं पादद्वयं च परस्परं योजयतु ।
- हस्तद्वयेन गुल्फद्वयं गृह्णातु ।
- पुरकेण क्रमशः ऊरुद्वयम् उपरि उत्थापयतु ।
- उदरस्य उपरिभागं,वक्षस्स्थलं,ग्रीवां, मस्तकं च शनैः उपरि उत्थापयतु ।
- नाभितः उदरं यावत् स्वल्पांशं भूमौ स्थापयतु ।
- शरीरस्य पृष्ठभागः, पुरोभागश्च उपरि उत्थाप्य धनुस्सदृशं शरीरं स्थापयतु ।
- दशनिमेषपर्यन्तम् अस्याम् अवस्थायां तिष्ठ्तु ।
- रेचकेण क्रमशः पूर्वावस्थाम् आगच्छतु ।
- त्रिचतुर्वारम् एवमभ्यासं करोतु ।
लाभः
- मेरुदण्डः सन्तुलितः भवति ।
- उदररोगस्य उपशमाय लाभदायकः भवति ।
- अग्न्याशयः स्वस्थः भवति ।
- नाभिचक्रं स्वस्थं भवति ।
- मूत्रग्रन्थिः स्वस्थो भूत्वा मूत्रविकारम् अपसारयति ।
- क्रमाङ्कितसूच्यंशाः
पवनमुक्तासनं योगासनस्य एकम् आसनमस्ति ।
आसनकरणविधिः
- पृष्ठमवलम्व्य भूमौ शयनं करोतु ।
- हस्तद्वयं शरीरमुभयतः भूमौ स्थापयतु ।
- एकं जानु पुटीकृत्य हस्तद्वयेन दृढं गृह्णातु ।
- पूरकेण वक्षस्स्थलं प्रति जानु आकर्षतु ।
- मस्तकम् अल्पमुत्थाप्य नासाग्रं स्पृशतु ।
- अपरपादं ऋजुतया भूमौ स्थापयतु ।
- पञ्चनिमेषान् तस्यामवस्थायां तिष्ठतु ।
- शनैः शनैः रेचकेण पादम् ऋजुकृत्य भूमौ स्थापयतु ।
- निमेषमेकं विश्रम्य अपरजानु पूर्ववत् करोतु ।
- ततः परं जानुद्वयमेकस्मिन् समये वक्षस्स्थलं प्रति आकर्षतु ।
- पुनः भूमौ पादद्वयं स्थापयतु ।
लाभः
- यकृतः पाकस्थल्याः च उपरि अस्य आसनस्य प्रभावः सम्यक् भवति ।
- आसनमिदम् उदरस्य दोषयुक्तवायुं नाशयति ।
- अम्लदोषं विनाश्य कटिग्रन्थिं मृदु करोति ।
- कोष्ठकाठिन्यं , पाकस्थलीरोगाः च नश्यन्ति ।पश्चिमोत्तानासनं योगासनस्य एकम् आसनमस्ति ।
आसनकरणविधिः
- दण्डासने उपविश्य हस्तद्वयं नितम्बस्य उभयतः स्थापयतु ।
- बाहुद्वयेन कर्णद्वयं स्पृष्टवा पूरकेण शनैः शनैः हस्तद्वयम् उत्तोलयतु ।
- ततः हस्तद्वयं पुरतः प्रसार्य रेचकेण शरीरम् अग्रे नमयतु ।
- हस्तद्वयेन पादाङ्गुष्ठद्वयं गृह्णातु ।
- मस्तकं जानुद्वयस्य मध्ये स्थापयतु ।
- निमेषं यावत् स्थित्वा पूरकेण शनैः शनैः उत्तिष्ठतु ।
- हस्तद्वयमुत्तोल्य, पुनः अधः कृत्वा नितम्बम् उभयतः स्थापयित्वा उपविशतु ।
लाभः
- उदरभागस्थाः कट्यन्तस्थिताः महापेशिः, लघुपेशिः, उदरपार्श्वपेशयः च बलवत्तराः भवन्ति ।
- उदरपृष्ठभागे कटिप्रदेशे च वर्तमानानां सर्वेषां पेशीनां स्नायूनां च प्रवृत्तिकुशलता सम्भवति ।
- उद रस्य आन्तरिकावयवानां मन्दता नश्यति । अन्त्रमालानां तरङ्गितचलनं वर्धते ।
- दुर्मेदः कदापि न वर्धेत् । ऊरुस्थानां पेशीनां विकासः सम्भवति ।
- उदरस्य निम्नभागे स्थितः मूत्रग्रन्थिः सक्रियः भवति ।
अनेनासनेन कशेरुकापेशीनां - विशिष्य उदरस्थानां पेशीनां स्नायूनां च विकासः सिद्ध्यति । पुष्टिः, बलं च प्राप्यते । पृष्ठवेदना, स्कन्धवेदना, गलवेदना इत्यादीनां शमनार्थमपि आसनमिदं सहकरोति । पृष्ठभागे रक्तचंक्रमणस्य वेगः वर्धते । उरसः विकासः सम्भवति । मूत्राशयरोगाणां कासरोगस्य च शमनार्थमपि आसनमिदम् उपकरोति ।
आसनकरणविधिः
- उदरमवलम्ब्य भूमौ शयनं करोतु ।
- करतलद्वयं वक्षस्स्थलमुभयतः भूमौ स्थापयतु ।
- पादौ ऋजुतया परस्परं संयोज्य भूमौ स्थापयतु ।
- मस्तकं, वक्षस्स्थलं च नाभिं यावत् उत्थापयतु ।
- नाभितः आरभ्य गलदेशं यावत् नाडीनां सम्प्रसारणम् अनुभवतु ।
- शरीरं भुजङ्गवत् शोभते ।
- पुनः रेचकेण मस्तकं भूमौ स्थापयतु ।
- अनेन क्रमेण त्रिचतुर्वारम् अभ्यासः करणीयः ।
लाभः
अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ निर्माणे सहायकः भवति । मूत्रग्रन्थिः क्रियाशीलो भवति । मेरुदण्डः दृढः भवति ।योगासनेषु अन्यतमम् आसनमस्ति मण्डूकासनम् ।
आसनकरणविधिः
- वज्रासने उपविशतु ।
- मुष्टिद्वयं पिधाय नाभिप्रदेशे स्थापयतु ।
- रेचकेण शनैः पुरतः शरीरम् अधोमुखीकरोतु ।
- निमेषद्वयानन्तरं पुनः पूरकेण वज्रासनं प्रति आगच्छतु ।
- अनेन प्रकारेण त्रिवारं, चतुर्वारं वा करोतु ।
लाभाः
- अग्न्याशयः सक्रियः भवति ।
- अनेन आसनेन अग्न्याशये ‘इनसुलिन्’ निर्माणम् अनायासेन भवति ।
- उदररोगाय उपयोगि आसनम् ।
- मूत्रग्रन्थिः अपि स्वस्था भवति ।मत्स्यासनम् योगासनस्य एकम् आसनमस्ति ।
आसनकरणविधिः
- पद्मासने उपविशतु ।
- कूर्परद्वयमवलम्ब्य भूमौ पृष्ठभागे शयनं करोतु ।
- ग्रीवां वक्षः स्थलं च पूरकेण यथाशक्ति उत्तोलयतु ।
- मस्तकस्य उपरिभागं भूमौ योजयतु ।
- जानुद्वयेन भूमिं स्पृशतु ।
- हस्तद्वयेन अङ्गुष्ठद्वयं गृह्णातु ।
- तस्यामवस्थायां निमेषत्रयं तिष्ठतु ।
- पुनः करतलद्वये स्कन्धं पृष्ठतः अवलम्बय रेचकेण सामान्यावस्थामागच्छतु ।
- पादद्वयं ऋजुतया प्रसार्य शावासने विश्रमतु ।
लाभः
- कोष्ठकाठिन्यम् अपसारयति ।
- श्वासकोषस्य सम्यक् सम्प्रसारणं भवति ।
- गलदेशस्य सम्प्रसारणेन श्वासनलः स्वस्थः भवति ।
- आयासरहितदीर्घश्वासनिर्वहणाय साहाय्यं करोति । कण्ठदेशे एवं हृदयोर्ध्वदेशे च वर्तमानानां पृष्ठास्थिभागानां विकासः सम्भवति ।
- गलस्य विपरीतदिशि नम्रीकरणद्वारा तत्रस्थानां स्नायूनां बलं एवं पेशीनां सङ्कोचशक्तिश्च जायते । स्कन्धपेशयः स्नायवः च बलवत्तराः भवन्ति ।
वक्रासनं योगासनस्य एकम् आसनमस्ति ।
आसनकरणविधिः
- दण्डासनेन उपविश्य दक्षिणपादं जानुतः पुटीकृत्य वामजानोः समीपे स्थापयतु ।
- वामपादम् ऋजुतया स्थापयतु ।
- वामहस्तमुत्तोल्य वामबाहुना दक्षिणजानुः स्पृशतु ।
- वामहस्तेन दक्षिणपादस्य अङ्गुष्ठं गृह्णातु ।
- ग्रीवां कटीं च शरीरस्य दक्षिणपार्श्वं प्रति वक्रीकृत्य पश्यतु ।
लाभः
- कटीदेशस्य स्थूलतायाः ह्रासः भवति ।
- यकृत, मूत्रग्रन्थिः, प्लीहा च स्वस्थाः भवन्ति ।
- अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ न्रिर्माणे सहायकः भवति ।
आसनकरणविधिः
- दण्डासनेन उपविश्य दक्षिणपादं जानुतः पुटीकृत्य वामजानोः समीपे स्थापयतु ।
- वामपादम् ऋजुतया स्थापयतु ।
- वामहस्तमुत्तोल्य वामबाहुना दक्षिणजानुः स्पृशतु ।
- वामहस्तेन दक्षिणपादस्य अङ्गुष्ठं गृह्णातु ।
- ग्रीवां कटीं च शरीरस्य दक्षिणपार्श्वं प्रति वक्रीकृत्य पश्यतु ।
लाभः
- कटीदेशस्य स्थूलतायाः ह्रासः भवति ।
- यकृत, मूत्रग्रन्थिः, प्लीहा च स्वस्थाः भवन्ति ।
- अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ न्रिर्माणे सहायकः भवति ।
आसनकरणविधिः
- भूमौ वामपादेन दण्डायमानः सन् दक्षिण्पादं जानुतः पुटीकृत्य वामजंघस्य समीपे स्थापयतु ।
- पूरकेण हस्तद्वयम् ऊर्ध्वम् उत्थाप्य नमस्कारमुद्रया मस्तकस्योपरि स्थापयतु ।
- मणिवन्धद्वयं मस्तकं श्पृशेत् ।
- निमेषद्वयं तस्यामवस्थायां तिष्ठतु ।
- शनैः शनैः रेचकेण हस्तद्वयमधः कृत्वा दक्षिणपादमधः करोतु ।
- पुनः अपरपादेन दण्डायमानो भूत्वा पूर्ववत् करोतु ।
लाभः
- आसनमिदं शरीरस्य ग्रन्थिसमूहं सहजतया सञ्चालयितुं समर्थं भवति ।
- ग्रन्थिसमूहं दृढीकरोति ।